प्रणम्य शिरसा देवं गौरी पुत्रं विनायकम् ।
भक्तावासं स्मरैनित्यंमायुः कामार्थ सिद्धये ।।
प्रथमम् वक्रतुण्डम् च एक दंतं द्वितीयकं ।
तृतीयं कृष्ण पिङाक्षं गजवक्त्रं चतुर्थकं ।।
लंबोदरं पंचमम् च षष्ठम् विकटमेव च ।
सप्तमम् विघ्न राजेंद्रम् धूम्रवर्णम् तथाष्टमं ।।
नवमं भालचँद्रं च दशमम् तु विनायकं ।
एकादशं गणपतिं द्वादशं तु गजाननं ।।
द्वादशैतानी नामानी त्रिसंध्यं यः पठेन्नरः ।
न च विघ्न भयं तस्य सर्व सिद्धि करं प्रभो ।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान मोक्षार्थी लभते गतिम् ।।
जपेद् गणपति स्तोत्रं षडभिर्मासे फलम् लभेत् ।
संवत्सरेण सिद्धिम् च लभते नात्र संशयः ।।
अष्टभ्यो ब्रह्मणेभ्यश्च लिखित्वा यः समर्पयेत ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ।।
" :- ॐ इति -: "
*********************
No comments:
Post a Comment